पराशरस्तु ।
उपस्थितायां चेत् सन्ध्यायां दृश्येत कुमारवधम् । अतीतायां वृद्धस्य राज्ञः । गन्धर्वनगरेण सहैवोदितः सूर्यः परचक्रागमनं कुर्यात्।
वराहसंहितायाम् ।
सितखपुरेऽर्कक्रान्ते पुरलाभो भेदने नाशः ।
नगरसदृशं सन्ध्याकाले यदा प्रतिदृश्यते
परमधिकृतं गन्धर्वाणां शतघ्निसमाकुलम् ।
नरपतिभयं देशे तस्मिँस्तदा परचक्रतो
रुधिकलिलः संग्रामो भवत्यतिदारुणः [१]॥
अथ दिक्फलं वराहसंहितायाम् ।
शान्तायां दिशि दृष्टं सतोरणं नृपतिविजयाय ।
पराशरः ।
दीप्तायां दिशि विच्छन्नरूपं वृक्षाग्रेषु दृश्यते महाभयम् । ऐशान्यां दिशि अभियोक्तृवधाय । वारुण्यामभियुक्तस्य । एभ्यस्त्वन्यानि दिशान्ते स्निग्धरूपाण्यविच्छिन्नानि शुभानि विन्द्यात् ।
बृहद्यात्रायां च वराहः ।
सिताद्यं ब्राह्मणादीँस्तु विदिग्वर्णस्तु सङ्करान् ।
प्रदक्षिणं च यात्रायां जयदे नेष्टमन्यथा ॥
ब्राह्मणादीन् हन्तीति सम्बन्धः । विदिक्षु विवर्णै चेति विदिग्वर्णम् ।
तथा च बार्हस्पत्ये ।
विदिक्ष्वेकं विवर्णं च पीडा ज्ञेया विवर्णिनाम् ।
आशाधिकारिणां चैव पीडा ज्ञेया यथाविधि ॥
बार्हस्पत्ये ।
प्राग्याम्यापरसौम्यानां गन्धर्वनगरं तथा ।
राज्ञः सेनापतेश्चैव युवराजपुरोधसाम् ॥
- ↑ इदं पद्यम्-अ. पुस्तके नोपलभ्यते प्रायो घटकणिकायां स्यात् ।