पृष्ठम्:अद्भुतसागरः.djvu/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०३
रश्मिदण्डाद्भुतावर्त्तः ।

 मध्वक्तानि घृताक्तानि जातवेदांसि मन्त्रवित् ॥
 विप्राय दक्षिणां दद्याद्धेनुं च वृषभं तथा ।
 एकरात्रोषितो भूत्वा ततः संपद्यते शुभम् ॥

मत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितासु वृष्टिविकारविहिता शान्तिरत्र कर्त्तव्येत्युक्तम् । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।

अथ वर्णाद्भुते तु ।

 इन्द्रायुधसवर्णानि वस्त्राण्याभरणानि च ।
 दद्याद्गाश्च हिरण्यं च तदा तच्छमयेद्भयम् ॥

पराशरः ।

 अथेन्द्रधनुषः सद्यः फलं सप्तरात्राद्वा -इति ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे इन्द्रधनुरद्भुतावर्त्तः ।

अथ रश्मिदण्डाद्भुतावर्त्तः ।

वराहसंहितायाम् ।

 रविकिरणजालमरुतां सङ्घातो दण्डवत् स्थितो दण्डः ।
 स विदिङ्मुखो नृपाणामशुभो दिक्षु द्विजातीनाम् ॥
 शस्त्रभयातङ्ककरो दृष्टः प्राङ्मध्यसन्धिषु दिनस्य ।
 शुक्लाद्यो विप्रादीन् यदभिमुखं तां च हन्ति दिशम् ॥

पराशरस्तु ।

 अथ दण्डा धनुर्भिः स्रमानरूपफलाः । विशेषतस्तूभयतो विच्छिन्नो दण्डोऽमूलवान् स्यात् । अपरं धनुरदृश्यात्मत् । दृश्यन्तश्च रश्मयस्तीक्ष्णाग्राश्चन्द्रसूर्ययोः । अन्तस्त्र्यहात् फलं तेषु त्रिषु विद्यात् । घनाः स्निग्धा दीर्घाः परिपर्णा रक्तनीलाः श्वेतानुगामिनो योग-