पृष्ठम्:अद्भुतसागरः.djvu/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०२
अद्भुतसागरे

निशि परिविष्टे चन्द्रमसीन्द्रधनुः फलं मयूरचित्रे ।

 उपरुद्धे निशानाथे रात्राविन्द्रधनुर्यदि ।
 तदा क्षोभः पुरस्य स्यात् परचक्रागमस्तथा ॥

अथेन्द्रधनुः फलं विष्णुधर्मोत्तरे ।

 रात्राविन्द्रधनुश्चेद्व्यभ्रे महाभयाय च ।

वटकणिकायां च वराहः ।

 व्यभ्रजं मरककारि.....................।

वराहसंहितायां च ।

 व्यभ्रे नभसि सुरधनुर्दिवा यदा दृश्यतेऽथ वा रात्रौ ।
 प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत् [१]

मत्स्यपुराणे ।

 निरभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ।
 इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव च ॥
 परचक्रागमं ब्रूयाद्देशोपद्रवमेव च ।

बार्हस्पत्ये ।

 निरभ्रे वा तथा रात्रौ श्वेतमिन्द्रायुधं यदि ।
 पूर्वपश्चादुत्तरासु भवेद्दुर्भिक्षतो भयम् ॥

औशनसे तु ।

 प्राच्यादिचतुरो वर्णान् हन्यादिन्द्रायुधं क्रमात् ।
 रात्रौ श्वेतं तथा रक्तं पीतं कृष्णं च सर्वतः ॥

नारदः ।

 रात्रौ चेन्द्रधनुर्यत्र दृश्यते यदि सत्तम ।
 अद्भुतं तत्र विज्ञेयं शान्तिं चेमां समारभेत् ॥
 औदुम्बर्याः सहस्राणि अष्टौ च जुहुयाद्द्विजः ।


  1. नेदं पद्यम् अ. पुस्तके उपलभ्यते ।