पृष्ठम्:अद्भुतसागरः.djvu/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९७
इन्द्रधनुरद्भुतावर्त्तः ।

 सुवर्णरजतं दद्याद्भुतान्ते भूरिदक्षिणाम् ॥

इति षोडशी शान्तिः ।
सप्तहात् परिवेषफलपाक इति वराहेणोक्तम् ।
गार्गीये ।

 ग्रहाणां परिवेषेषु त्रिरात्रात् फलमादिशेत् ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे परिवेषाद्भुतावर्त्तः ।

अथेन्द्रधनुरद्भुतावर्त्तः ।

तत्रेन्द्रधनु: स्वरूपं वराहसंहितायाम् ।

 सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे ।
 वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥

विन्ध्यवासिन[१] इयमार्या वराहेण लिखिता ।
वराहसंहितायां तु ।

 के चिदनन्तकुलोद्भवनिश्वासोद्भुतमाहुराचार्याः ।

तथा च काश्यपः ।

 अनन्तकुलाजाता ये पन्नगाः कामरूपिणः ।
 तेषां निश्वाससम्भूतं शऋचापं प्रचक्षते ॥

अथ शुभ सूचकेन्द्रधनुर्लक्षणम् । तत्र काश्यपः ।

 स्निग्धवर्णं घनश्यामं सर्वत्र दिशि दृश्यते ।
 बहूदकं सुभिक्षं च शिवं शस्यप्रदं भवेत् ॥

वराहसंहितायाम् ।

चापमैन्द्रमनुलोममखण्डं प्रोज्ज्वलं वहलमातपमिष्टम्[२]

तथा च ।


  1. कश्चिद्विन्ध्यवासी आचार्य इत्यनुमीयतेऽतोऽग्रेऽतद्वचपि नस्योपलब्धेः ।
  2. नेदम् अ. पुस्तके उपलभ्यते ।