पराशरः ।
परिवेषमण्डलं यस्यां दिशि भिद्येत दारुणम् ।
तस्यां दिशि विशेषेण विद्यात् तीव्रतरं फलम् ॥
भार्गवीये ।
छिद्राण्येव त्रीणि च स्युर्महान्ति विमलानि च ।
तैर्द्वारैः पार्थिवो यायात् प्रच्छन्नास्तु विशङ्कटाः ॥
प्रच्छन्ना या दिशस्ता विशङ्कटा दुर्गाद्याः ।
विष्णुधर्मोत्तरे तु ।
यतः खण्डपरीवेषस्तां दिशं नृपतिर्यायात् ।
भार्गवीये तु ।
कालाम्बुदपरिस्रावग्रहोदयनिमित्तजम् ।
इत्येवं जन्म सर्वेषां शेषमुत्पातलक्षणम् ॥
पराशरः ।
सर्व एव सन्ध्ययोर्दृश्यमाना वर्षासु वर्षकाः स्युरन्यर्त्तौ भयाय ।
अत्रानुक्तविशेषशान्तिषु परिवेषोत्पातेषु परिविष्टग्रहनक्षत्रदेवतापूजापूर्विका सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
मत्स्यपुराणे ।
परिवेषेऽपि वृष्टिविकारविहिता शान्तिः कर्त्तव्या-इत्युक्तम् । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।
अथ विहितविशेषशान्तयः परिवेषोत्पाता मयूरचित्रे ।
परिवेषे समुत्पन्ने शुक्लादौ ब्राह्मणादयः ।
हतप्रभा वा जायन्ते तथा शक्रधनुर्निभे ॥
औदुम्बराणां पञ्चैव सहस्राणि समाहितः ।
अष्टोत्तरं घृताक्तानां शतमष्टोत्तरं तथा ॥
पायसं भोजयेद्विद्वान् दधिक्षीरगुडोदनैः ।