पृष्ठम्:अद्भुतसागरः.djvu/३०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९४
परिवेषाद्भुतावर्त्तः।

यथास्वं यथास्ववर्गमित्यर्थः ।
भार्गवीये ।

 ताराग्रहरीवेषो नपक्षत्राणां च केवलम् ।
 महाग्रहोदयं कुर्यान्मरणं वा महीपतेः ॥

महाग्रहः केतुः ।

 पृथक् ताराग्रहस्यैव नक्षत्राणामथापि वा ।
 परिवेषो यदा दृश्यस्तदा नरपतेर्वधः ॥
 यदि केतूदयो न स्यादन्यथा तद्भवेत् फलम् ।

वराहसंहितायां तु ।

 ताराग्रहस्य कुर्यात् पृथगेव समुत्थयोर्नरेन्द्रवधः ।
 नक्षत्राणामथ वा यदि केतोर्नोदयो भवति ॥

अथ प्रतिपदादितिथिषु फलं भार्गवीये ।

 ब्रह्मक्षत्रियविट्शूद्रान् हन्यात् प्रतिपदादिषु ।
 ग्रामान् पुरं च कोषं च पञ्चम्यादिषु तु त्रिषु ॥
 अष्टम्यां युवराजं च चमूपालान् हिनस्ति वै ।
 नवम्यां च दशम्यां च एकादश्यां च पार्थिवान् ॥
 त्रयोदश्यां बलक्षोभो द्वादश्यां रुध्यते प्रजा।
 राज्ञीपीडा चतुर्दश्यां पञ्चदश्यां नृपस्य च ॥

वराहसंहितायाम् ।

 ब्रह्मक्षत्रियविशूद्रहा भवेत् प्रतिपदादिषु क्रमशः ।
 श्रेणीपुरकोषाणां पञ्चम्यादिष्वशुभकारी ।
 युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः ।
 पुररोधी द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् ॥
 नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् ।
 कुर्यात् तु पञ्चदश्यां पीडां मनुजाधिपस्यैव ॥