पृष्ठम्:अद्भुतसागरः.djvu/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९०
अद्भुतसागरे

 अनृतावपि जानीयान्महद्भयमुपस्थितम् ।

अपिशब्दः समुच्चये ।

 कृष्णनीहारतिमिरैः संप्रत्याक्रान्तमण्डले ।
 विकारैर्नाभसैः कीर्णैः स्फुलिङ्गोपचितेऽशुभे ॥
 विषमे विगतस्त्रेहे विध्वस्तकलुषाद्भुते ।
 त्रिषु सन्धिषु भूयिष्ठे दर्शनं चोपगच्छति ॥
 द्वित्रिनक्षत्रगे वाऽपि नक्षत्रार्धगतेऽपि च ।
 प्रदीप्तैर्वा रसद्भिश्च वीक्षमाणैर्मृगद्विजैः ॥
 परिवेषं विजानीयान्नृपोत्थानमुपस्थितम् ।
 सप्तरात्राद्भयं घोरं चौरशस्त्राग्निमृत्युभिः ॥

अरण्यकाण्डे खरवधनिमित्तम् ।

 "श्यामं च रक्तपर्यन्तं बभूव परिवेषणम् ।
 अलातचक्रप्रतिमं परिगृह्य दिवाकरम्"[१]

हरिवंशमत्स्यपुराणपद्मपुराराणेषु हिरण्यकशिपुवधनिमित्तम् । सूर्य इत्यनुवृत्तौ ।

 "गगनस्थश्च भगवान् सततं परिविष्यते”[२]

गगनस्थो दशमस्थो मध्याह्न इत्यर्थः ।
वराहसंहितायाम् ।

 प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथ वा ।
 रक्तोऽस्तमेति रक्तोदितश्च भूयः करोत्यन्नम् ॥

विष्णुधर्मोत्तरे ।

 उदयास्तमने भानोः चन्द्रस्य च यदा भवेत् ।
 परिवेषस्तदा राजा क्षिप्रमेव विनश्यति ॥

वराहसंहितायाम् ।

 प्रतिदिनमर्कहिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः ।


  1. २३ अ. ३ श्लो ।
  2. ४६ अ. १० श्लो. हरिवंशे । परिविष्यते इत्यत्र परितप्यते इति पाठः ।