पृष्ठम्:अद्भुतसागरः.djvu/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९१
परिवेषाद्भुतावर्त्तः ।

 परिविष्टयोरभीक्ष्णं लग्नास्तमयोर्भयं[१] तद्वत् ॥

गर्गः ।

 उदयेऽस्तमये मध्ये सूर्याचन्द्रमसोर्दिवि ।
 परिवेषः प्रदृश्येत तद्राष्ट्रमवसीदति ॥

वराहसंहितायाम् ।

दीप्तमृगविहङ्गमरुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् ।
भयकृत् तडिदुल्काद्यैर्हतो नृपं हन्ति शस्त्रेण ॥

गर्गः ।

 दिवा सूर्ये परीवेषो रात्रौ चन्द्रे यदा भवेत् ।
 एकस्मिँस्तदहोरात्रे तदा नश्यति पार्थिवः ॥

विष्णुधर्मेत्तरे ।

 सकलं यदहः सूर्यो रात्रिं चेत् सकलां शशी ।
 परिवेषो भवेद्राजा तत्रापि वधमृच्छति ॥

पराशरस्तु ।

 सोमसूर्ययोः सकलाहोरात्रपरिवेषणं क्षुद्व्याधिभयैः प्रजानाशाय -इति ।

मयूरचित्रे ।

 विक्षिप्तमण्डले रूक्षे परिवेषेऽर्कचन्द्रयोः ।
 वृष्टिं तत्र विजानीयाद्विपर्यासे विपर्ययः ॥
 रक्ताभे परिवेषे च रवेः स्याद्भूपतेः क्षयः ।
 चन्द्रस्य तु चमूनां तु सम्प्रभस्याप्रभस्य च ॥

गर्गः ।

 द्विमण्डलपरीवेषः सेनापतिवधङ्करः ।
 युद्धं सुदारुणं कुर्यात् दृश्यते मण्डलैस्त्रिभिः ॥

भार्गवीये ।

 द्वाभ्यां सेनापतिभयं युवराजभयं त्रिभिः ।


  1. लंग्नास्तमयस्थयोस्तद्वत्, लग्नास्तनभःस्थयोस्तद्वत् इति च अ. ।