पृष्ठम्:अद्भुतसागरः.djvu/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८८
अद्भुतसागरे

 त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः"[१]

पराशरस्तु ।

 धूम्रवर्णोऽग्निवर्णो वाऽग्निभयाय । अतिमात्रं रक्तः शस्त्राय पीतो व्याधये । कृष्णो विरुद्धानामन्योन्यवधाय वर्षाय च । परुषोऽन्योन्यवधायैव । नील उपायतो वलस्यैकदेशोपघाताय । लोहितश्चौराणाम् । कपिलो ब्राह्मणानाम् । पीतवर्णः संधानाय । पाण्डुरो निःश्रेयसे । समवायेषु तु द्वादशसु कालकालपरुषपरुषहरितहरितनीलनीलताम्रताम्रकपिलक- पिलारुणारुणरक्तरक्तशुक्लशुक्लपीत।पीतपाण्डुकृष्णेषु द्वयोर्वर्णयोः पूर्वः पूर्वो वर्णो गरीयान् । अभ्यन्तरोऽभ्यन्तराणां बहिर्बाह्यानां त्रीणि चन्मण्डलानि स्युरन्तलोहितं मध्ये पीत बहिः श्वेतं स्यात् बाह्यस्य राज्ञो जयाय अभ्यन्तरस्य च वधाय विपर्यये विपरीतम् । अभ्यन्तरतः कुलीनमेवाभिषिञ्चति । अन्तपीतके रक्तमध्ये बहिःश्वेते इति ।

भार्गवीये ।

 यायिनां स्थावराणां च तथैवाक्रन्दसारिणाम् ।
 परिवेषाद्विजानीयाद्वाह्यभ्यन्तरमध्यतः ॥

वराहसंहितायां च ।

 नागरकाणामभ्यन्तरस्थितानां यायिनां च बाह्यस्थाः ।
 परिवेषमध्यरेखा विज्ञेयाऽऽक्रन्दसाराणाम् ॥
 रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम् ।
 स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस्तेषाम् ।

भार्गवीये तु ।

 सरक्तः श्यामकलुषो येषां भागो हतप्रभः ।


  1. १ अ. ५२ लो.