पृष्ठम्:अद्भुतसागरः.djvu/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८६
अद्भुतसागरे

भार्गवीये ।

 अतः परं प्रवक्ष्यामि नक्षत्रेषु ग्रहेषु च ।
 परिवेषान् बहुविधान् नानाविधफलोदयान् ॥
 ऐन्द्रवारुणकौवेरान् रक्तपाण्डुरमेचकान् ।
 पाण्डून् वभ्रूँश्च नीलाँश्चानलानिलयमात्मकान् ॥
 प्राजापत्याँश्च रौद्राँश्च नैर्ऋत्याँश्चैव भार्गवान् ।
 हरिच्छवलकापोतान् परिवेषानुवाच ह ॥
 नवैते परिवेषाणां वर्णा दैवतयोनयः ।
 बहुत्वमेते गच्छन्ति अन्योन्यगुणसंश्रयात् ॥

एवं ते सर्व एव स्निग्धाः शुभावहा भवन्ति ।
तथा च काश्यपः ।

 सितपीतेन्द्रनीलाभा रक्ताः कापोतवभ्रवः ।
 शवलाग्निमेचकाः स्निग्धा विज्ञेयास्ते शुभवहाः ॥

अथापरोऽपि वायुकृतः परिवेषो वराहसंहितायामुक्तो यथा ।

 प्रविलीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः ।

भार्गवीये तु ।

 धूमकर्पूरमाञ्जिष्ठरक्तपीतासिताकृतिः ।
 भवत्येकतरे पार्श्वे रूपणाविलमण्डलः ॥
 तनुना वाऽभ्रजालेन समन्तात् परिवारितः ।
 मुहुर्मुहुश्च विलयं सन्धानं वाऽपि गच्छति ॥
 सोऽपि वायुकृतो ज्ञेयो मृदुमन्ददिवाकरः ।
 परिवेषोऽल्पफलदो वातवृष्टद्युपबृहितः ॥
 अथ चेद्वातवृष्टिस्तु त्रिरात्रान्नोपजायते ।
 ज्वलज्ज्वलनचौराणां प्रादुर्भावः प्रजायते ॥