पृष्ठम्:अद्भुतसागरः.djvu/२९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७९
ऋक्षाद्यद्भुतावर्त्तः ।

द्वन्द्वार्थयोगो मिथुनौषधादिज्ञानोपदेशव्यवहारधीराः ।
नैपुण्यवैकारिकदम्भजीवा राशेस्तृतीयस्य नटाः सधूर्त्ताः ॥

काश्यपः ।

 कर्कटे फलदूर्वादि कोद्रवः कदली तथा ।

वराहसंहितायां तु ।

 कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।

यवनेश्वरस्तु ।

नारीतरस्विश्रुतवृद्धिविप्राः सरांसि वाप्यः कुमुदोत्पलानि ।
द्रव्याणि शीतानि मृदुद्रवाणि स्वादूनि संजीवनहर्षणानि ॥
नक्राः समण्डूककुलीरकूर्माः शाकानि पुष्पाणि च वारिजानि ।
फेनाः सकुन्ता जलजीविनश्च राशेश्चतुर्थस्य परिग्रहाः स्युः ॥

काश्यपः ।

 सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडः ।

वराहसंहितयोस्तु ।

 सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ।

यवनेश्वरस्तु ।

शैलाटवोशृङ्गविषास्थिकाष्ठत्वग्मांसरोमाजिनतान्तवानाम् ।
आरण्यजानां नखदन्तिशृङ्गिकुरुङ्गरूक्षोक्षुरसौषधीनाम् ॥
व्याधेष्टकृद्विप्रनृमुख्यभूभृन्मूर्छाग्निशौर्णिकञ्चनानाम् ।
ऋत्विग्भिषग्मन्त्रभृदुद्धतानां सिंहो निरुक्तो विभुरोजसां च ॥

काश्यपः ।

 कन्या कुलत्थमुद्गानां नीवाराणां कलायकम् ।[१]

वराहसंहितयोस्तु ।

 षष्ठेऽतसीकलायाः कुलत्थगोधूमनिष्पावाः ।


  1. कन्यायां मुद्गनीवारकुलत्थाः सकला ययाः इति अ. ।