पृष्ठम्:अद्भुतसागरः.djvu/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७८
अद्भुतसागरे

अथ मेषादिराशीनां द्रव्याणि । तत्र काश्यपः ।

 मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।

वराहसंहितयोस्तु ।

 वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
 स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥

यवनेश्वरस्तु ।

भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वक्पत्रदग्धप्रहतक्षतानाम् ।
मनःशिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥

काश्यपः ।

 वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।

वराहसंहितायां तु ।

 गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।

यवनेश्वरस्तु ।

क्रीडाविहारस्त्रगपत्यनारीविद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥

काश्यपः ।

 मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।

वराहसंहितायां तु ।

 मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।

यवनेश्वरस्तु ।

पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥