पृष्ठम्:अद्भुतसागरः.djvu/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७७
ऋक्षाद्यद्भुतावर्त्तः ।

 तारकाणां दिवा दर्शने रात्रावदर्शने च मत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितोक्ताग्निवैकृतशान्तिः कर्त्तव्या । तां चान्यद्भतावर्त्ते लिखिष्यामः ।
अथ राश्यद्भुतानि । तत्र काश्यपः ।

 चतुःपञ्चद्विसप्तस्थो नवदिमुद्रगो गुरुः ।
 यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिकृत् स्मृतः ॥
 द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः ।
 शुक्रः सप्तरिपुस्थो वा हानिकृद्वद्धिगोऽन्यगः ॥
 पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यगाः ।

वराहसंहितयोः ।

 राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः ।
 द्व्येकादशपञ्चाष्टमसंस्थ: शशिजश्च वृद्धिकरः ॥
 षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
 उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकरः ॥

काश्यपः ।

 इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु ।
 भवन्ति तद्भवानां तु द्रव्याणां शुभदाः स्मृताः ॥

वराहसंहितायां तु ।

 इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशोनाम् ।
 तद्द्रव्याणां वृद्धिः सामर्धं सुलभताऽत्रैव ॥

काश्यपः ।

 राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः ।
 तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति च ॥

वराहसंहितायां तु ।

 राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
 तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥