पृष्ठम्:अद्भुतसागरः.djvu/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६७
ऋक्षाद्यद्भुतावर्त्तः ।

 तथा वसुवनादिस्थाश्चीनप्रावरणाश्च ये ॥
 त्रिनेत्रा: पौरवाश्चैव गन्धर्वाश्च द्विजोत्तम ।
 पूर्वोत्तरे तु कूर्मस्य पादमेते समाश्रिताः ॥

वराहसंहितायां तु ।

 ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ।
 अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवदनराष्ट्राः ॥
 ब्रह्मपुरदीर्घडामरवनराज्यकिरातचीनकालिन्दाः ।
 पह्लवलोलजटाघरकुलटाः खशघोषकुशिकाख्याः[१]
 एकचरणान्ध्रविश्वाः[२] सुवर्णभूर्वसुधनं दिविष्ठाश्च ।
 पौरवचीरविवसनासिनेत्रमुञ्जाद्रिगान्धर्वाः ॥

अत्र प्रधानदेशा वटकणिकायाम् ।

 पौष्णाद्ये काश्मीरार्णवश्च[३] दरदाभिसारचीनखशाः ।
 तङ्गणकीरकुलूता[४] ब्रह्मपुरजटासुराश्चेति ॥

राशेस्तदधिपस्य पीडायामपि राशिदेशानां पीडा भवति ।
तथा च मार्कण्डेयपुराणे ।

 कूर्म देशास्तथार्क्षाणि देशेष्वेतेषु वै द्विज ।
 राशयश्च तथार्क्षेषु ग्रहराशिष्ववस्थिताः ॥
 तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ।
 यस्यर्क्षस्य पतिर्यो हि ग्रहस्तद्धानितो भयम् ॥
 तद्देशस्य मुनिश्रेष्ठ तथोत्कर्षे शुभागमे ।
 मेषादयस्तयोर्मध्ये मुखे द्वौ मिथनादिकौ ॥
 प्राग्दक्षिणे तथा पादे कर्किसिंहै। व्यवस्थितौ ।


  1. भल्ला: पटोलजटासुरकुनटखसघोषकुचिकाख्याः इति अ ।
  2. एकचरणानुविद्धाः इति अ ।
  3. तङ्गणकिरातकीरा इति अ. ।
  4. काश्मीरत्रिगर्त्त - इति अ. ।