पृष्ठम्:अद्भुतसागरः.djvu/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६३
ऋक्षाद्यद्भुतावर्त्तः ।

अथ वायव्यदिग्देशाः । तत्र पराशरः ।

 अथ पश्चिमोत्तरस्यां दिशि गिरिमतिवेणुमतिरलमतिफाल्गुनकमाण्डव्यैकनेत्रमरुकुत्सतुषारताल [१]फलमद्रहलहंसवलाहानलानदीर्घकेशग्रीवाव्यङ्गाचर्मबङ्गखगशूलिगुरूहकुलाताः परमतः स्त्रीराष्ट्रम् -इति।

मार्कण्डेयपुराणे तु ।

 माण्डव्याश्च तुषाराश्च अश्वफाललतास्तथा ।
 कुलूतालद्रुमाश्चैव स्त्रीराष्ट्रलोहिकास्तथा ।
 नृसिंहा वेणुमत्याश्च वनावस्थास्तथा परे ।
 चर्मबङ्गास्तथा लूकास्तन्त्रकूर्चास्तथा जनाः ॥
 तथा फाल्गुनका घोरा गुरुहा शूलिकास्तथा ।
 एकेक्षणा वाजिकेशा दीर्घग्रीवास्तथैव च ॥
 वामपादे जनाश्चैते स्थिताः कूर्मस्य भागुरेः ।

वराहसंहितायां तु ।

 दिशि पश्चिमस्योत्तरस्यां माण्डव्यतुषारतालहलमद्राः ।
 अश्मककूलूतहलडाः स्त्रीराष्ट्रनृसिंहवनखस्थाः ॥
 वेणुमती फल्गुलुका गुलुहा मरुकुत्स[२]चर्मरङ्गाख्याः ।
 एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥

अत्र प्रधानदेशा वटकणिकायाम् ।

 विश्वेश्वरादिशूलिकतालतुषारैकनेत्रमाण्डव्याः ।
 स्त्रीराज्यचर्मरङ्गाश्महलारुहककल्गुलुकाः ॥

अथोत्तर दिग्देशाः । तत्र काश्यपः ।

 उत्तरस्यां तु कैलासं मरुमुत्तरजान् कुरुन् ।


  1. तालमल्लहलउहलातर्वार्दलीनवीलन-इति अ ।
  2. कुञ्च -इति अ