पृष्ठम्:अद्भुतसागरः.djvu/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६०
अद्भुतसागरे

 कर्कोटवनवासी[१]  शिविकामणिकारकोङ्कणाभीराः ।
 आकरवेणावर्त्तकदशपुरगोनर्दकेरलकाः ॥
 कर्णाटमहाटविचित्रकूटनासिक्यकोलगिरिचोलाः ।
 क्रौञ्चद्वीपजटाधरकावेर्या ऋष्यमूकश्च ॥
 वैडूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः ।
 गणराष्ट्रकृष्णवेल्लुपिशिकसूर्याद्रिकुसुमनगाः ॥
 तुम्बवनकार्मणेयकयाम्योदधितापासाश्रमा ऋषिकाः ।
 काञ्चीमरुचीपट्टनचर्यार्यकसिंहला ऋषभाः ॥
 बलदेवपट्टनं दण्डकावनं तिमिङ्गिलाशना भद्राः ।
 कच्छोदकन्दरदरीसताम्रपर्णीति विज्ञेयाः ॥

अथ प्रधानदेशा वटकणिकायाम् ।

 आर्यम्णाद्ये चोलिक[२]कोङ्कणवनवासिकोर्ण[३]गिरिमलयाः ।
 उज्जयिनीभरुकच्छा दिशा न याम्याऽर्णवं यावत् ॥

अथ नैर्ऋतीदिग्देशाः । तत्र काश्यपः ।

 नैर्ऋत्यां दिश्यमी देशाः सिन्धुपह्लवकच्छपाः ।
 आभीराः शूद्रसौवीरा रैवताः क्रीतभीषणम् ॥
 कालेयाः फलगिरयो वर्वराः खण्डमुञ्जकाः ।
 यवना मार्गणानर्त्ताः कर्णप्राचेयकास्तथा ॥
 किराता द्रविडाः सिन्धुस्त्रीमुखाः कपिलास्तथा ।
 प्रभावमङ्गसंदेशं महासागर एव च ॥

पराशरस्तु ।

 अथ प्रत्यग्दक्षिणस्यां महाराष्ट्रसिन्धुसुराष्ट्रसौवीरशूद्राभीरद्रविडकेतक सिन्धुकोलक हेमगिरिरैवतकानत्तकवाह्लीकयवनप-


  1. कङ्कटकङ्कणवनवासि इति अ. ।
  2. वैदिक- इति अ ।
  3. कोल्ल इति ।