पृष्ठम्:अद्भुतसागरः.djvu/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५५
ऋक्षाद्यद्भुतावर्त्तः ।

 कापिष्ठलाः कुकुराद्यास्तथैवोदुम्बरा जनाः ।
 गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः ॥

वराहसंहितायाम् ।

 भद्रारिमेदमाण्डव्यशाल्वनीपोज्जिहानसंख्याताः ।
 मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥
 माथुरकोपज्यौतिषधर्मारण्यानि शूरसेनाश्च ।
 गौरग्रीवोद्दहिकपाण्डुगुडाश्वत्थपाञ्चालाः ॥
 साकेतकङ्कमरुकालकोटिकुकुराह्वपारियात्रनगाः ।
 औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ॥

वटकणिकायां तु ।

 मध्यमुदक्पाञ्चाला गङ्गाया उत्तरं कुरुक्षेत्रम् ।
 उदगपि च पारियात्रं मरुमथुरायोध्यमत्स्याश्च ॥
 सारस्वतयामुनवत्सघोषसंस्थाननीपमाण्डव्याः ।
 भद्रारिमेदनैमिषशाल्वोपज्यौतिषाश्वत्थाः ॥
 औदुम्बरकुकुराह्वोज्जिहानगजशाल्वपाञ्चालाः ।
 माध्यमिकोद्दैहिककालकोटिकापिष्ठलं मध्ये ।

अथ पूर्वदिग्देशाः । तत्र काश्यपः ।

 पूर्वे मालवका भद्रा मिथिला पौण्ड्रवर्धनम् ।
 काशिकोशलसूक्ष्माश्च मागधा मेकलास्तथा ॥
 व्याघ्रवक्त्राः सूर्पकर्णा लौहित्यः शोण एव च ।
 प्राग्ज्यौतिषमहेन्द्रादिकिराताः क्षीरवासिनः ॥

पराशरस्तु ।

 अथ पूर्वस्यां च मालवशिविराञ्जनपद्मवृषभध्वजोदयशिखरिदन्तुरकाः काशिकोशलमगधमिथिलामेकलोत्कलपुण्ड्रककर्वटसम-