पृष्ठम्:अद्भुतसागरः.djvu/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५४
अद्भुतसागरे

 यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥

अथ दिग्देशाः । तत्र काश्यपः ।

 कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी ।
 मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥
 आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा ।
 मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥
 गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः ।
 सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥
 कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् ।
 पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥

पराशरस्तु ।

 अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ [१] नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्रीवपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।

मार्कण्डेयपुराणे तु ।

 भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः ।
 उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥
 मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः ।
 धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥
 वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः ।
 कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥


  1. पाण्डुगुडाश्वत्थ - इति अ. ।