पृष्ठम्:अद्भुतसागरः.djvu/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५६
अद्भुतसागरे

तटोड्रगौडकभद्रद्रविडसुह्मताम्रलिप्त प्राग्ज्यौतिषवर्धमानवाजिमुखाम्बष्टपुरुषादसू- र्पकर्णिकोष्ठाधिश्रोत्रव्याघ्रमुखलौहित्यार्णवक्षीरोदार्णवमीनाशनकिरातसौवीरमहीधरा विवासिनैकपादोदयनिवासिनश्च ।

मार्कण्डेयपुराणे तु ।

 वृषध्वजोऽजनश्चैव पद्माख्यो मलयाचलः ।
 सूर्पकर्णव्याघ्रमुखौ गुर्वकः कर्पटाशनः ॥
 तथा चन्द्रपुराश्चैव खशाः समगधास्तथा ।
 शिवयो मिथिला औड्रास्तथा वदनदन्तुराः ॥
 प्राग्ज्यौतिषाश्च लौहित्याः सामुद्राः पुरुषादकाः ।

वराहसंहितायां तु ।

 अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः ।
 व्याघ्रमुखसुह्मकघटचान्द्रपुराः सूर्यकर्णाश्च ॥
 खशमगधशिविरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः ।
 प्राग्ज्यौतिषलौहित्यक्षीरोदसमुद्रपुरषादाः ॥
 उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः ।
 एकपदताम्रलिप्तककोशलका वर्धमानाश्च ॥

अत्र प्रधानदेशा वटकणिकायाम् ।

 आर्द्रादिकाशिकोशलमिथिलोत्कलवर्धमानपौण्ड्रोड्राः ।
 लौहित्यमगधसमतटमेकलखशताम्रलिप्ताश्च ॥

अथाग्नेयोदिग्देशः । तत्र काश्यपः ।

 आग्नेय्याशास्थिता ये च विन्ध्यं मलयपर्वतम् ।
 विदिशाश्च दिशार्णश्च बङ्गा अङ्गाः कलिङ्गकाः ॥
 किष्किन्धाः शूकराः पुण्ड्राः पाठराश्च विदेहकाः ।
 क्षत्रियाः शवरा नग्ना नालिकेरार्णवाश्रिताः ॥