पृष्ठम्:अद्भुतसागरः.djvu/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५२
अद्भुतसागरे

 सा पीडिता पीडयति मध्यदेशमशेषतः ॥
 रौद्रादिः पीडिता पूर्वां सार्पादिः पूर्वदक्षिणाम् ।
 आर्यम्णादिस्तथा याम्यां स्वात्यादिर्दक्षिणां पराम् ॥
 ज्येष्ठादिः पश्चिमामाशां वैश्वादिरुत्तरोत्तराम् ।
 वारुणादिस्तथा सौम्यां पूर्वादिः पूर्व-उत्तराम् ॥

विष्णुधर्मोत्तरे ।

 कृत्तिका रोहिणी सौम्या मध्यदेशस्य निर्दिशेत् ।
 पीडिते त्रितये तस्मिन् मध्यदेशः प्रपीड्यते ॥
 आर्द्रा पुनर्वसू पुष्पः पूर्वस्यां तु भवेद्दिशि ।
 पीडिते त्रितये तस्मिन् पूर्वदेशः प्रपीड्यते ॥
 सार्पं मित्रं तथा भाग्यमनलस्य दिशि स्मृतम् ।
 पीडिते त्रितये तस्मिन्नाग्नेयी पीड्यतेऽथ दिक् ॥
 आर्यम्णमथ हस्तं च त्वाष्ट्रं स्याद्दिशि दक्षिणे ।
 पीडिते त्रितये तस्मिन् दक्षिणा दिक् प्रपीड्यते ॥
 स्वातिर्विशाखा मैत्रं च नैर्ऋत्यां दिशि कीर्त्तितम् ।
 पीडिते त्रितये तस्मिन् नैर्ऋती पीड्यतेऽथ दिक् ॥
 ज्येष्ठा मूलं च तोयं च वरुणस्य दिशि स्मृतम् ।
 पीडिते त्रितये तस्मिन् वारुणी पीड्यतेऽथ दिक् ॥
 वायव्यां दिशि निर्दिष्टा वैश्ववैष्णववासवाः ।
 पीडिते त्रितये तस्मिन्नैशानी दिक् प्रपीड्यते ॥

काश्यपस्तु ।

 क्षितौ भारतवर्षेऽस्मिन् नवभागव्यवस्थया ।
 बहुलाद्यास्त्रयो ऋक्षा[१] मध्यदेशादिषु स्थिताः ॥


  1. ऋक्षाणीत्यत्र ऋक्षा इत्यार्षः ।