पृष्ठम्:अद्भुतसागरः.djvu/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४७
ऋक्षाद्यद्भुतावर्त्तः ।

न वाल्हीकसिन्धुसौवीरकीरपहवान् । उत्तरेणापः सर्वतः सुराष्ट्रवैदेहहिरण्यपादक्षुद्रकमालवमलयजवृजिनहैमवतबाहु-दाकुम्भिभोजानाम् । हिरण्यपादानां च श्रेष्ठम् । यच्च पार्श्वेषूक्तम् ।

 आश्विनस्योत्तरतारोपसृष्टा किरातकाम्बोजगपह्लवान् पीडयति । अपरा रूपधनगुणान्वित चिकित्सकैकद्विशफानाम् । युगपदुभे प्राच्योदीच्यवाल्हीकपारतदरदकाशिवत्सनिषदानत्तान् किष्किन्धा न् यवनानां च श्रेष्ठ बीजेष्वौधौषधाीन् । अध्यक्षेषु चाध्यक्षान् । यच्चैकैकश उक्तम् ।

 भरणीनां प्राक्तारोपतप्ता मेकलोल्फलकलिङ्गान् पीडयति । दक्षिणा प्रत्यन्ततस्करान् उदक् प्राणितः शश्येषु च । सर्वाः शवरवर्वरपुलिन्दतिमिङ्गिलदुर्भटाङ्गवङ्गरोडुमेकलान् । सर्वदस्युकलिङ्गानां दक्षिणार्धम् । शस्यषु शुकधान्यम् । पूर्वमेकलानां श्रेष्ठं च । यच्चैकैकश उक्तम् ।

 अत्रानुक्तविशेषशान्तिषु नक्षत्रोत्पातेषु प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिककलगुरुलाघवमवगम्य कर्त्तव्या।

एतेषां फलपाकसमयं पाकसमयावर्ते वक्ष्यामः ।
अथ ग्रहाणां नक्षत्रमार्गचारफलं वराहसंहितायाम् ।

 उत्तरमार्गों याम्यादि निगदितो मध्यमस्तु भाग्यादि ।
 दक्षिणमार्ग आषाढादि कैश्विदेवं कृता मार्गाः ॥

तथा च गर्गः ।

 भरण्यादौ मघान्ते च प्रथमे नवके गणे ।
 वर्त्तमानः शुभो ज्ञेय उत्तरे पथि वर्त्तते ॥

उत्तरमार्गाश्रितः करग्रहोऽपि शुभफलो भवतीत्यर्थः ।

 क्रूरो निर्ऋतिपर्यन्ते भाग्यादौ नवके गणे ।