पृष्ठम्:अद्भुतसागरः.djvu/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४६
अद्भुतसागरे

ष्ठसुह्मकानाम् । रसेषु सर्वरसानां च सकामानां न श्रेष्ठस्य । यच्चैकैकश उक्तम् ।

 धनिष्ठायाः पश्चिमेन तारोपसृष्टा शकयवनकाम्बोजोत्तरनेपालानाम हिताय । द्वितीयोत्तरेणोत्तरपर्वतवासिनाम् । तृतीया पूर्वेण पूर्वसागरसंस्थितानाम् । चतुर्थी दक्षिणेन पक्षियवकलायसर्षपाणाम् । प्रत्यग्दक्षिणेन । पञ्चमी सिन्धुसौवीराभीराणाम् । युगपत् सर्वाः पाण्ड्यकैरातोड्रशोकमोकस्वमोकतलरवाङ्गबङ्गहेमकटसिंहलोत्कलनैकरसमूलमध्यदेशवाह्लीकसैन्धवकालकूटेक्षुमतीनिवासिनाम् । शस्येषु मुद्गानाम् । शकेषु श्रेष्ठानाम् । यच्चकैकश उक्तम्।

 अथ वारुणं पूर्वणोपतप्तं कलिङ्गान् पीडयति । दक्षिणेन दक्षिणसमुद्रम् । पश्चिमेन पश्चिमभिषकक्षुद्रौषधानि । चोत्तरेण सर्वोषधीः स्त्रोश्च सर्वतस्ताम्रपर्णां ताम्रलिप्तकहाटकसह्यभरुकच्छपिङ्गभूपतिमूलापरान्तकपुकशश्मकपुरेन्द्र-राष्ट्रसौरगिरिशैलेयपारियवनान् । शस्येषु यवगोधुमान्

 प्राक्प्रौष्ठपदोत्तरतारोपसृष्टा मगधाङ्गपुण्ड्रयवनकाम्बोजानामुपतापकर्त्ता । दक्षिणेनैकपगोमताम् । युगपदुभे भिषगम्बष्टमेकलोत्कलपुलिन्दशबरदर्दुरमलयनर्मदासिन्धुसौवीरकाश्मीरहितहिरण्य-बाहुवैशालेयशशकुन्तराजमार्गगोगजाश्वानाम् । यच्चैकैकश उक्तम् ।

 आहिर्बुध्न्योत्तरतारोपसृष्टा महात्मनां राज्ञामहिताय । अपरा मगधकाश्मीरराजानाम् । युगपदुभे काम्बोजोशीनरत्रिगर्त्तकाश्मकार्जुनायनक्षुद्रकमालवाभीराणाम् । सर्वत्र महतां कुशलानाम् । रसेष्विक्षुरसानाम् । यच्चैकैकश उक्तम् ।

 रेवती पूर्वेणोपसृष्टा पशूनुपहन्ति दक्षिणेनानर्त्तान् । पश्चिमे-