पृष्ठम्:अद्भुतसागरः.djvu/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४५
ऋक्षाद्यद्भुतावर्त्तः ।

 मूलस्य पूर्वेणैकातारोपसृष्टा शस्यानां विपत्तये राष्ट्रदुर्भिक्षाय । उभे ग्रामनगरनिगमजनोपदेष्टृकर्णप्रावरणदस्यु-सौवीरमहिषमाहिष्मतीगिरिव्रजनिवासिनामभावाय । रसेषु च लवणस्य । मणिमतीनां च श्रेष्ठस्य । यच्चेकैकश उक्तम्

 पूर्वाषाढाया: पूर्वेण ताराद्वयमुपसृष्टं कूपनदीसरः सागरसलिलाशयानामुपतापं जनयति । अपरं काशीनामवर्षं शवरेशविनाशं च । युगपच्चतस्रस्त्रिगर्त्तवीतिहोत्रभार्गववर्हिणप्रभासमार्यसुखं संजनयति । सागराश्रिताँश्चोपहन्ति । मत्स्येषु वर्हिकान् माहिष्मत्याः श्रेष्ठम् । यच्चासां द्वन्द्वश उक्तम् ।

 वैश्वदेवस्योत्तरेण धिष्ण्यद्वयमुपसृष्टं चतस्रः समाः प्रजाः पीडयन्ति । दक्षिणेनामात्यधर्मिष्ठकाशिपुत्रं गृहस्थान् । युगपत्सर्वेषूपतप्तेषु वीतिहोत्रमर्जुनायनताम्रपर्णसैन्धवारण्यनैमिषजच्युतमार्ग-कौशिकसारस्वतान् । सर्वाणि च पुण्यायतनानि वर्णेषु । ब्राह्मणान् । पार्थिवेषूग्र्यान् । यच्च द्वन्द्वश उक्तम् ।

 तथाऽभिजिता मध्यतारोपतापः शोषयति देवान् । द्वितीयोत्तरेण ब्राह्मणानृषिगणाँश्च । तृतीया दक्षिणेन नृपराष्ट्रकामात्यान। युगपत् सर्वान् ब्राह्मणान् ब्रह्मीं पुरव्रीहमतीं पूर्वगङ्गां स्वर्गङ्गां कालकूटां स्वस्तिभद्रां सर्पातिपन्नगयवनद्वीपं ब्रह्मचारिणो द्वीपेषु भद्राश्वान् पर्वतेषु पञ्चपर्वतपुष्परुद्रकान् कुलेषु श्रेष्ठान् । यच्चैकैश उक्तम् ।

 श्रवणस्य मध्यमतारोपसृष्टा धनुर्धराणामभावाय। अपरा दक्षिणेन शूरसेनानां क्षत्रस्य । उत्तरेण तृतीया शूरसेनयवनकाम्बोजानां च । युगपत् सर्वास्त्रिगर्त्तानर्त्तमालवक्षुद्रकार्जुनायनाभीरयोधेयाम्ब-