पृष्ठम्:अद्भुतसागरः.djvu/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४४
अद्भुतसागरे

 अथ चित्रा प्राच्यां दिशि उपसृष्टा चेदीनामपां चाहिताय याम्यायां दण्डकाश्मकानाम् । वारुण्यां नटनर्त्तकचित्रकराणाम् । सौम्यायामार्त्तिकानां भावानाम् । सर्वासु पञ्चालकैकयभागीरथकुरुगन्धर्व-स्थलमद्रमाषमुद्गानाम् । विशेषतः कैकयश्रेष्ठानाम् । यच्चाशासूक्तम् ।

 स्वातिः पूर्वेणोपसृष्टा वातवृष्टिं जनयति । दक्षिणेनातिवृष्टिम् । पश्चिमेन सिन्धुसौराष्ट्रनृपाँश्चोपहन्ति । उत्तरेण यवनकाम्बोजान् । सर्वतस्तूशीनरावन्तिचेदिवासोदिव्याभिसारकदर-दकाश्मीरोत्तरकुरूणामभावाय । शाकेषु सर्वपाराणाम् । चतुष्पदेष्वेकशफानाम् । पश्चाच्चाभिषिक्तः शैलाटविकश्च राजा विनश्यतीति ।  विशाखोत्तरतारोपसर्गे कोशलेक्ष्वाकव उपसृष्ट्यन्ते । इतरायां भ्रातरो विभक्ताः कुरवश्च । युगपदुपसर्गे यमजाः । शष्पेषु यवगोधूमाः । यच्चैकैकश उक्तम् ।

 ज्येष्ठामध्यमधिष्ण्योपघाते ज्येष्ठनृपतिप्रधानजननारीविनाशं विन्द्यात्। पूर्वेण विदेहानाम् । एकशकानां पशुषु । स्वदेशेषु नृपस्य । शस्येषु कलायानां च । यच्चैकैकश उक्तम् ।

 अनुराधानामुत्तरेण ज्योतिरुपहतं सन्धिविग्रहं मित्रभेदं स्वस्थकोशलानां चोपतापं जनयति । दक्षिणेन द्वितीयचमूपतिद्वाराऽधिपतीनाम् । तृतीयं दक्षिणेन वालेषु विदग्धानां च । चतुर्थं शस्यानां च । युगपदुपसृष्टा मगधाङ्गकाशिवैदेहभागीरथहिरण्यकुटुम्बकानाम् । तत्पश्चिमे यवनकाम्बोजानाम् । युगपत्सर्वास्विन्द्रप्रथममिन्द्रप्रस्थमाहेन्द्रगिरिम् । मध्यं पृथिव्याश्चेदिपृष्ठमभिसारं क्षेमधृतिदरदाँश्चोपहन्ति । मृगादिपशुहानिः । ऐडविडानां च श्रेष्ठस्येति । यच्चैकैकश उक्तम् ।