पृष्ठम्:अद्भुतसागरः.djvu/२५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४३
ऋक्षाद्यद्भुतावर्त्तः ।

न्ते । प्रदक्षिणेन द्वितीयायाम् । अहिग्राहिमायाकारबन्धनपालाः । तृतीयायां गजगजाध्यक्षाः । तदतु चतुर्युपसृष्टा तस्करान् विनाशयति । पञ्चमी दौवारिकान् खरकरभशूकरान् । षष्टी भुजगसरीसृपसुरामैरेयविदानुपहन्ति । युगपत् सर्वा विदर्भनैमिषमणिमतीनिवासिनः । वर्षाशालिशुण्ठीकोद्रवविनाशाय । यच्चैकैकश उक्तम् ।

 मघानां दक्षिणतारोपतापे वासिष्ठाः पीड्यन्ते । तदुत्तरेण द्वितीया । तस्यामुपतप्तायामौषधयस्ताम्रपर्णकाश्च । तृतीयायां वृद्ध्युपजीविनः । चतुर्थ्यां कोष्ठागाराणि पितृधान्यं च पञ्चभ्यां माहिष्मतीनिवासिनः । षष्ठ्यां नागा नागाश्रिताश्च । युगपदुपसृष्टासु ताम्रपर्णकाधिपगणवाह्यानि । यच्चैकैकश उक्तम् ।

 भाग्योत्तरतारोपघातेन किराताश्चोपताप्यन्ते । अपरायाः सुभगवनकाम्बोजाः । युगपदुपसृष्टे तदधिपतिपाञ्चालाभीरभागीरथमहापथविदेहान् पीडयतः । रसेषु गुडविकारान् । यच्चैकैकश उक्तम् ।

 आर्यम्णस्य दक्षिणोपसृष्टा मगधाधिपतिविनाशाय । उत्तराउत्तरनिवासितां शस्यानां च । उभे विदेहशाल्वमत्स्याङ्गमगधनेपालत्रैपुराहिताग्नीनाम् । शस्येषु कुलत्थानाम् । यच्चैकैकश उक्तम्।

 सावित्रस्य पूर्वदक्षिणेन तारोपसृष्टा तस्करान् पीडयति । द्वितीया दक्षिणेन प्राच्यान् । तृतीयोत्तरेण सौरगिरिकान् । चतुर्थ्युत्तरेण योगयुगन्धरभिक्षुकान् । एतस्यां तु पञ्चमी समिकलोत्कलद्वीपपुरराष्ट्राणि । युगपत् सर्वा दण्डकमध्यारण्यकचेदिगोकर्ण यामुनसप्तराष्ट्रवैणिकदशार्णाङ्गबङ्गसौरगिरिकाँश्च । चतुष्पपदेषु द्विरदान् । बीजेषु निष्पाबमूलकानि । औषधेषु पीप्पलीम् । यच्चेकैकश उक्तम् ।