पृष्ठम्:अद्भुतसागरः.djvu/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४१
अद्भुतसागरे

एव तृतीया सां भूपान् महान्ति च कुलानि । दक्षिणपूर्वा योपतप्ताबीजोपतापिनी दक्षिणतः । दक्षिणतः पञ्चमी प्रजानामुपतापाय । युगपदुपसृष्टाः सर्वा मौञ्जिपुरुषादगौडकपञ्चालवन्धुधुर्यमहिषकुरुजाङ्गलशूरसेनानाम् । अन्नानां शालयः पीड्यन्ते । अस्यां पार्थिवानां शस्त्रप्रादुर्भावश्च । यच्चैकैकेश उक्तम् ।

 मृगाशिरस्युत्तरेण या तारोपसृष्टा यतिमुनिब्राह्मणान् पीडयति। पूर्वेण द्वितीया तङ्गणोशीनरान् । तृतीया सर्वशस्यानि। युगपत् सर्वा: शाल्वनिषादगान्धारौदीच्याम्बष्टविदेहान् । बीजेष्वलावुककारुक्षोर्वारुकषष्टिकान् । यच्चैकैकस्य मुक्तशाल्वानां चाग्र्यम् ।

 आर्द्रायाः प्राग्भागस्योपताप मालवादेविकानिवासिनश्चोपताप्यन्ते । दक्षिणस्य व्याधिचण्डालवैकृतिकबन्धनेपालानां कलिङ्गानां च सन्धिः । पश्चिमस्य मृगा धनुर्वृत्तयश्च उत्तरस्य नदनदीपल्वलाक्षोदकचराश्च । सर्वतस्त्वश्मकाः । स्नेहेषु तैलं पयः सुरासवेषु । यच्च पार्श्वेषूक्तम् ।

 पुनर्वसोरुत्तरतारोपसर्गे देवमनुष्याः पीड्यन्ते । इतराया वणिजश्चावन्तिकाश्च । उभ्यां भरुकच्छपाण्ड्यापरान्तकान्त गिर्युपगिरिसूर्योपावृत्तकाः । कार्पासं बीजेषु । यच्चोभाभ्यामुक्तम्।

 पुष्ये पूर्वेणोपतप्तः पार्थिवान् पीडयति । दक्षिणेन चेदिमत्स्यान् । पश्चिमेन कुरून् । उत्तरेण क्षितीशान । सर्वतः पाञ्चालसिन्धुसौवीरवर्धमाननास्तिक्यरामगिरिगौरीपुरनिवासिनः । कार्षिका द्विजाग्र्यमेधाविकधार्मिकदधिघृतपयांसि च

 सार्पाणामुत्तरेणाद्या तारा तस्या उपसर्गाद्दंष्ट्रिण उपतप्य-