पृष्ठम्:अद्भुतसागरः.djvu/२५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३९
ऋक्षाद्यद्भुतावर्त्तः ।

 रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
 तुषधान्यतीक्ष्णगन्धाभि[१] चारवेतालकर्मज्ञाः ॥
 आदित्ये सत्यौदार्यशौचकूलरूपधीयशोऽर्थयुताः ।
 उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥
 पुष्ये यवगोधूमः शालीक्षुवनानि मन्त्रिणो भूपाः ।
 सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥
 अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ।
 परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ॥
 पित्र्ये धनधान्यार्घाः कोष्ठागारणि पर्वताश्रयिणः ।
 पितृभक्तवणिकशूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥
 प्राकफाल्गुनीषु नट्युवतिसुभगगान्धर्वशिल्पिपण्यानि ।
 कर्पासलवणमाक्षिकतैलानि कुमारकाश्चापि ॥
 आर्यम्णे मार्दवशौचविनयपाखण्डदानशास्त्ररताः ।
 शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥
 हस्ते तस्करकुञ्जररथिकमहामात्र शिल्पिपण्यानि ।
 तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ॥
 त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ।
 गणितपटुतन्तुवायाः शालक्या राजधान्यानि ॥
 स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
 अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ॥
 इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
 कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥


  1. मन्त्राभि-इति अ ।