पृष्ठम्:अद्भुतसागरः.djvu/२५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३८
अद्भुतसागरे

तेषूपसृष्टेषु शुभग्रहाणां वक्रचारोदयास्तमयैः शुभानामप्यथ यथोक्त-चारैर्भूकम्पोल्कापातनिर्घाताशनिराहुकेतुविकृतैर्वर्षासु वर्षं विद्यात् । समग्रैरुपसृष्टैः फलसामग्र्यमसमगैरसामग्र्यम् । रोहिणीज्येष्ठाप्रौष्ठपदानामुपघाते तीव्रतरं फलम् ।

अपि च ।

 वारुणं पित्र्यमाग्नेयं ज्येष्ठामपि च रोहिणीम् ।
 पीडयेयुर्यदैतानि राहुषष्ठाधिकारिणः ॥
 दुर्भिक्षं जायते लोके शस्यमत्र न रोहति ।
 शुष्यन्ति सरितः सर्वाः पर्जन्यश्च न वर्षति ॥
 एतेष्वनुपतप्तेषु दशमर्दोषु कालवित् ।
 विमुक्तान्तकसन्तापं जगद्वर्षासु निर्दिशेत् ॥

वराहसंहितायोः ।

 रविरविसुतभोगमागतं क्षितिसुतभेदनचक्रभूषितम् ।
 ग्रहणहतमथोल्कया हतं नियतमुखाकरपीडितं च यत् ॥
 तदुपहतमिति प्रचक्षते प्रकृतिविपर्यपातमेव च ।
 निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥

निगदित परिवर्गदूषणमिति रव्यादिभोगदृष्ठं नक्षत्रं स्ववर्गदूषणं करोतीत्यर्थः ।

अथ नक्षत्रवर्गः । वराहसंहितायाम् ।

 आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
 आकविकनापितद्विज[१] पटकारपुरोहिताब्दज्ञाः ॥
 रोहिण्यां सुत्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
 गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसंपन्नाः ॥
 मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः ।
 मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥


  1. घटकार इति अ. ।