पृष्ठम्:अद्भुतसागरः.djvu/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३७
ऋक्षाद्यद्भुतावर्त्तः ।

अथ ऋक्षाद्यद्भुतावर्त्तः ।

ऋक्षं नक्षत्रं राशिश्च । वटकणिकायाम् ।

नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्विताश्चेत् ।
आलोकं वा निर्निमित्तं न यान्ति ध्वंसं यायात् सर्वलोकः सभूपः ॥

विष्णुधर्मोत्तरे ।

 रोहिणीशकटं भिन्युग्रहा यदि भवेत् तदा ।
 नाशः प्रजानां क्रूरैश्च विशेषेणेह संक्रमे ॥

वराहसंहितयोः ।

 प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
 केशास्थिशकलबाला कापालिकमिव व्रतं धत्ते ॥

बृहत्संहितायाम् ।

  रोहिण्याऽनलभं च वत्सरतनुर्नाभिस्त्वषाढाद्वयं
 सार्पं हृत् पितृदैवतं च कुसुमं शुद्धैः शुभैस्तैः फलम् ।
 देहे क्रूरनिपीडेतेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं
  पुष्ये मूलफलक्षयोऽथ हृदये शस्यस्य नाशो ध्रुवम् ॥

काश्यपश्च ।

 कृत्तिका रोहिणी चोभे संवत्सरतनुः स्मृता ।
 आषाढाद्वितयं नाभिः सार्पं हृत् कुसुमं मघा ॥
 क्रूरग्रहहते देहे दुर्भिक्षानलमारुताः ।
 क्षुद्भयं तु भवेन्नाभ्यां पुष्ये मूलफलक्षयः ॥
 हृदये शस्यहानिः स्यात् सौम्यैः पुष्टिः प्रकीर्त्तिता ।

पराशरः ।

 अथ दश ऋक्षाणि रहस्यभूतानि भवन्ति । तद्यथा कृत्तिका रोहिणी मघा प्रौष्ठपदं सार्पमैन्द्रं वारुणं याम्यमाप्यं वैश्वदेवं च ।