पृष्ठम्:अद्भुतसागरः.djvu/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३६
अद्भुतसागरे

अथ संवत्सराद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ।
 इदाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ॥
 तद्वत्सरोऽन्यः कथितस्तथा चैवात्र पञ्चमः ।

पराशरः ।

 अथ वर्षेषु तावदाग्नेयः संवत्सरः परिवत्सर इदावत्सरश्चान्द्रो वायव्योऽथ वत्सरः ।

विष्णुधर्मोत्तरे ।

 संवत्सरोऽग्निः परिवत्सरोऽर्क इदाभिधानो भगवाँच्छशाङ्कः ।
 ब्रह्मा स्वयम्भूर[१]नुवत्सरोऽत्र इद्वत्सरः शैलसुतापतिश्च ॥
 वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये ।
 पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममनब्दमुक्तम् ॥

वराहसंहितायामप्येवम् पराशरस्तु ।

 आग्नेये विद्यात् प्राबल्यमग्नेः पैत्तिकानां च रोगाणाम् । सौरे शङ्करसूनुनामक्षामपुष्पफलशस्यदमतीव । चान्द्रे ग्रैष्मिकाणां व्याधीनां बहुत्वमन्नस्य सम्पदं सर्वौषधीनां च विशेषेण क्षीरणीनाम् । वायव्ये वातवेगवान् वातरोगप्रबल्यं घनानामल्पोदकत्वं च । मार्त्त्येवे सर्वव्याधिप्राबल्यं बालमरकं गर्भस्रावं च-इति ।

अथ संवत्सरादिगणनम् ।

खनववियदिन्दु-१०९० हीना व्येकाः शकवत्सराः शरैस्तष्टाः । क्रमशोऽत्र संपरीदान्विन्द्व्या वत्सराः पञ्च ॥

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचिते
ऽद्भुतसागरे संवत्सराद्यद्भुतावर्त्तः ।


  1. इदा दिकः शीतमयूखशाली । प्रजापतिश्चाप्य इति अ. ।