पृष्ठम्:अद्भुतसागरः.djvu/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३२
अद्भुतसागरे

यवनेश्वरस्तु ।

सन्धानदानप्रयतः क्षितीशः स्वाध्यायतीर्थानुरतिर्द्विजौघः[१]
निराधिरुत्पादित[२]शस्यवर्षो बौधः सुहृत्स्नेहविवर्धनोऽब्दः ॥

वराहसंहितायां तु ।

  माहेन्द्र[३]जालकुहकाकरनागराणां
 गान्धर्वलेख्यगणितास्त्रविचारवृद्धिः[४]
  पिप्रीषया नृपतयोऽद्भुतदर्शनानि
 दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥
  वार्त्ता जगत्यवितथा विकलात्रयी च
 सम्यक् चरत्यपि मनोरिव दण्डनीतिः ।
  मध्यस्थतासु विनिविष्ट[५]धियोऽपि केचि-
 दान्वीक्षिकीषु च परं पदमीहमानाः ॥
  हास्यज्ञदूतकविबालनपुंसकानां
 युक्तिज्ञसेतुजलपर्वतवासिनां च ।
  हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे
 मासेऽथ वा प्रचुरतां भुवि चौषधीनाम् ।

विष्णुधर्मोधत्तरे ।

 बहुयज्ञोऽतिशस्यश्च गोगजाश्वहितस्तथा ।
 बहुवृष्टिप्रदः क्षेमो जीवाब्दो द्विजपुष्टिदः[६]

यवनेश्वरस्तु ।

 सुवर्षयज्ञोत्सवर्षदानो नीरुग्व्यथो धर्मपरोऽवनीशः ।
 स्फीतान्नपानै[७]र्बहुशस्यकर्त्ता गुरोश्च धर्म[८] प्रयतप्रजोऽब्दः ॥


  1. स्वाध्यायतीर्थाध्वरभीर्द्विजौघः इति अ ।
  2. निराधिरुह्यध्यम इति अ ।
  3. मायेन्द्र-इति अ ।
  4. विदां च वृद्धिः इति अ ।
  5. अध्यक्षरस्वभिनिविष्ट-इति अ ।
  6. पुरन्दरगुरोरब्धे बहुशस्यप्रद शिवः । इति अ ।
  7. स्फोतानुपानैः-इति अ ।
  8. स्वकर्म इति अ ।