पृष्ठम्:अद्भुतसागरः.djvu/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३१
रव्यादिवर्षाद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 अग्नितस्कररोगाढ्यो नृपविग्रहदायकः ।
 उपशस्यो[१]बहुव्यालो भौमाब्दो बालहा भृशम् ॥

यवनेश्वरस्तु ।

रणप्रचण्डः क्षितिरल्पशस्या विशुष्कवारिद्रुमशस्यवीरुत् [२]
अङ्गारकाब्दः प्रचुरोरगाग्निरातङ्कचौर्यक्षुदवृष्टिदृष्टः ॥

वराहसंहितायां तु ।

 वातोद्धतश्चरति वह्निरतिप्रचण्डो
  ग्रामान् वनानि गराणि च संदिधक्षुः ।
 हाहेति दस्युगणपातहता रटन्ति
  निःस्वीकृता विपशवो भुविमर्त्यसङ्घाः ॥
 अभ्युन्नता वियति संहतमूर्त्तयोऽपि
  मुञ्चन्ति कुत्रचिदपः प्रचुरं पयोदाः ।
 सीम्नि प्रजातमपि शोषमुपैति शस्यं
  निष्पन्नमप्यविनयादपरे हरन्ति ॥
 भूषा न सम्यगभिपालनसक्तचित्ताः
  पित्तोत्थरुक्प्रचुरता भूजगप्रकोपः ।
 एवंविधैरुपहता भवति प्रजेयं
  संवत्सरेऽवनिसुतस्य विपन्नशस्या ॥

विष्णुधर्मोधरे ।

ब्रह्मक्षत्रस्य शस्यानां जनानां च कलाविदाम् ।
वृद्धिप्रदोऽब्दो चौधस्तु भूयः शस्यकरः[३] क्षितौ ॥


  1. गतशस्य इति अ ।
  2. शप्यशीर्णः इति अ ।
  3. भूयसाम्यकरः इति अ ।