पृष्ठम्:अद्भुतसागरः.djvu/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२९
रव्यादिवर्षाद्भुतावर्त्तः ।

अथ रव्यादिवर्षाद्भुतावर्त्तः ।

वटकणिकायाम् ।

 वर्षाधिपा अशुभदा दिनकरतनयप्रभाकरमहीजाः ।
 क्षुच्छस्त्रदहनतस्कररोगभयावृष्टयः प्रोक्ताः ॥
 शेषाणामतिशुभदं शोभनकनकान्नवारिसंपूर्णा ।
 भवति वसुधा क्रियावाँल्लोकश्च नृपाः स्वभावस्थाः ॥

विष्णुधर्मोत्तरे ।

 तीक्ष्णोऽर्कः स्वल्पशस्यश्च गतमेघोऽतितस्करः ।
 बहूरगव्याधिगणैर्भास्कराब्दो रणाकुलः[१]

यवनेश्वरस्तु ।

 दिवाकराब्दे रणविग्रहोग्रपृथ्वीश्वरस्तीव्रविषज्वराग्निः ।
 अवर्षशुष्कक्षयशस्यसंघः[२]प्रचण्डवह्र्युग्रशिरोऽक्षिरोगः ॥

वराहसंहितयोस्तु ।

 सर्वत्र भूर्विबलशस्यवती वनानि
  दैवाद्विभक्षयिषुदंष्ट्रिसमावृतानि ।
 स्पन्दन्ति नैव च पयः प्रचुरं स्रवन्ति
  रुग्भेषजानि न तथाऽतिबलान्वितानि ॥
 तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
  नात्यम्बुदा जलमुचोऽनलसन्निकाशा: ।
 नष्टप्रभर्क्षगणशीतकरं नभश्च
  सीदन्ति तापसकुलानि सगोकुलानि ॥
 हस्त्यश्वपत्तिमदसह्यबलैरुपैता


  1. इत्यादीन्येतद्विषयकाणि वचनानि अ.पुस्तके समाससंहितायाः प्रमाणत्वेनाभिहितानि ।
  2. अववंशुष्कद्रमशुष्कस्य-इति अ. ।