पृष्ठम्:अद्भुतसागरः.djvu/२४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२८
अद्भुतसागरे

बादरायणः ।

 पापौ सूर्यात् सप्तमस्थौ केन्द्रस्थौ चापि घातकौ ।
 सौम्यदृष्टौ न सर्वत्र नाशनौ वृष्टिकोपतः ॥

वराहसंहितयोः ।

 जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्विकस्थस्य ।
 शस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥
 वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ ।
 भवति तदा निष्पत्तिः शस्यानामर्घपरिहानिः ॥

बादरायणः ।

 स एव योगाभिहितो वृश्चिकस्थे दिवाकरे ।
 वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः ॥

वराहसंहितयोः ।

 विधिनाऽनेनैव रविवृषप्रवेशे शरत्समुत्थानाम् ।
 विज्ञेयः शस्यानां नाशाय शिवाय वा तज्जैः ॥
 त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
 ग्रैष्मिकधान्यं कुरुते समर्घमुभयोपभोग्यं च [१]
 कार्मुकमृगघटसंस्थः शारदशस्यस्य तद्वदेव रविः ।
 संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥

 अत्रानुक्तविशेषशान्तिषु योगोत्पातेषु योगकर्तॄग्रहपूजापूर्विका जपहोमादिका शान्तिः कर्त्तव्या ।

इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लासेनदेवरचितेऽद्भुतसागरे आकृत्यादियोगाद्भुतावर्त्तः ।


  1. समर्थममयोपभोग्यं च इति अ. ।