पृष्ठम्:अद्भुतसागरः.djvu/२४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२७
आकृत्यादियोगाद्भुतावर्त्तः ।

बादरायणः ।

 सूर्याद्द्वितीयगे शुक्रे विधुजे तत्र संस्थिते ।
 द्वयोर्वा द्वादशेऽप्येवं स्थितयोः शस्यसम्पदः ॥
 सूर्येऽत्र गुरुणा दृष्टे योगः स्यादतिशोभनः ।

वराहसंहितयोस्तु ।

 अर्कात् सिते द्वितीये बुधेऽथ वा युगपदेव वा स्थितयोः ।
 व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ॥
 शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् ।
 अल्यादिस्थे सवितरि गुरोर्द्वितीयेऽर्धनिष्पत्तिः ॥
 लाभहिबुर्कार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः ।
 शस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ।

बादरायणः ।

 वृश्चिकेऽर्के वृषे चन्द्रः कुम्भे जीवः कुजार्कजौ ।
 मकरे चेद्भवेच्छस्यसम्पच्चक्रागमो महान ॥

वराहसंहितयोस्तु ।

 कुम्भे गुरुर्गवि शशी सूर्येऽलिमुखे कुजार्कजौ मकरे ।
 निष्पत्तिरस्ति महती पश्चात् परचक्ररोगभयम् ॥

बादरायणः ।

 वृश्विकाय स्थितः सूर्यः पापमध्यगतो यदा ।
 शस्यहा सप्तमे पापे जातं जातं विपद्यते ॥

वराहसंहितयोस्तु ।

 मध्ये पापग्रहयोः सूर्यः शस्यं विनाशयत्यलिगः ।
 पापः सप्तमराशौ जातं जातं विनाशयति ॥
 अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् ।
 शस्यं निहन्ति पश्चाद्रप्तं निष्पादयेद्व्यक्तम् ॥