पृष्ठम्:अद्भुतसागरः.djvu/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२६
अद्भुतसागरे

 तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥
 प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः ।
 क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥

वराहसंहितायां तु ।

 दृश्येत यत्र रवांशे ग्रहमाला दिनकरे दिनान्तगता ।
 तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥

 खांशे दशमस्थाने मध्याह्ने देश इत्यर्थ: । ग्रहमाला बुधभार्गवत्यतिरिक्ता । दिनान्तगतेऽस्तमितमात्रे न तु समयान्तरे ।

 यस्यां दिशीक्षमाणा विशन्ति तारा ग्रहा रविं सर्वे ।
 भवति भयं दिशि तस्यामायुधकोपः क्षुदातङ्गैः ॥

पराशरः ।

 यद्यत् फलमिह प्रोक्तं ग्रहसंयोगसम्भवम् ।
 तत्तन्नक्षत्रदेशेषु तेषु तेषु विनिर्दिशेत् ॥

 एतेष्वनुक्तविशेषशान्तिषु आकृत्यादिग्रहयोगाद्भुतेषु योगकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।  अत्रानुक्तफलपाकसमयविशेषाणां दिव्याद्भुतानां वर्षेण फलपाकः पराशरेणोक्तः ।

बादरायणः ।

 वृश्चिकस्थे सहस्रांशौ सौम्यैर्बलिभिरीक्षिते ।
 तद्वत्केन्द्रयुतैर्विन्द्याद्ग्रीष्मधान्यस्य सम्पदः ॥

वराहसंहितयोः ।

 भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः ।
 बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥
 अष्टमराशिगतेऽर्के गरुशशिनोः कम्भसिंहसंस्थितयोः ।
 सिंहघटसंस्थितयोर्वा निष्पत्तिर्ग्रीष्मशस्यस्य ॥