पृष्ठम्:अद्भुतसागरः.djvu/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
कृत्यादियोगाद्भुतावर्त्तः ।

 शस्याम्बुनाशाय तुला तुलाज्ञश्चोपजीवति ।
 ध्वजः शस्यविनाशाय चक्रं चक्रं विनाशयेत् ॥

विष्णुधर्मोत्तरे ।

 यदा सप्तसु दृश्येत कृत्तिकादिषु संपतन् ।
 सह शुक्रेण तु बुधस्तदा देवो न वर्षति ॥

पराशरः ।

 उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती ।
 पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥

ऋषिपुत्रस्तु

 अन्योन्यमस्तमस्थौ तु यदि शुक्रबृहस्पती ।
 पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥

वराहसंहितायां तु ।

गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोच्छ्रितम् ॥
निहन्ति शुक्रः क्षितिजेऽवतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः ।
चराचरं व्यक्तमथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥
 सौम्यास्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृ-
  द्रोगान् कामलपित्तजाँश्च कुरुते पुष्णाति च ग्रैष्मिकम् ।
 हन्यात् प्रव्रजिनोऽग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान्
  वैश्यान् गाः सह वाहनैर्नरपतीन् मृद्गाति पश्चाद्दिशः ॥
बृहस्पतौ हन्ति पुरः स्थिते सितः सितं समस्तं द्विजगोसुरालयम् ।
दिशं च पूर्वां करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥
शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशकराः ।
पुलिन्दशूद्राश्च सदक्षिणा पथाः क्षयं व्रजन्त्यक्षिमरुद्भवोद्भवैः ॥