पृष्ठम्:अद्भुतसागरः.djvu/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१८
अद्भुतसागरे

वृद्धगर्गस्तु ।

 पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
 नागराश्चापि पीड्यन्ते हते सौरं बुधेन तु ॥

वराहसंहितायाम् ।

 सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।

पराभूते मन्दे इति सम्बन्धः ।
वृद्धगर्गस्तु ।

 बृहस्पतिहतः सौरो वाह्लीकाँश्चापि पीडयेत् ।
 बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणाँश्चानयः स्पृशेत् ॥

वराहसंहितायाम् ।

 असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा ।

वृद्धगर्गस्तु ।

 तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
 धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥

वराहसंहितायाम् ।

 अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
 फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥

आदित्यादिभक्तय आदित्याद्भुतावर्त्तेषु लिखिताः ।
अथ नागरादिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः ।

 बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
 स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
 एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।

स्थावरा अकृतोद्याप्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्यमा यायिन इत्यर्थः ।
भार्गवीये तु ।

दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥