पृष्ठम्:अद्भुतसागरः.djvu/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०७
ग्रहयुद्धाद्यद्भुतावर्त्तः ।

 ह्रस्वाण्यस्नेहयुक्तानि न भवाय भवन्ति हि ॥
 यत्किंचित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ।
 क्रूरस्थेषु प्रसन्नेषु स्थावरं परिहीयते ॥

 अत्रानुक्तविशेषशान्तिष्वगस्त्याद्यद्भुतेषु अगस्त्यादिपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिफलगुरुलाघवमवगम्य कर्त्तव्या ।

अत्रानुक्तफलपाकसमयविशेषणादगस्याद्यद्भुताना संवत्सरेण फलपाको बोद्धव्यः ।
तथा च पराशरः ।

 तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते -इति ।

 इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरेऽगस्त्यसप्तर्षिध्रुवाद्यद्भुतावर्त्तः ।


अथ ग्रहयुद्धाद्यद्भुतावर्त्तः ।

तत्र गर्गः ।

 छादनं रोधनं चैव रश्मिमर्दस्तथैव च ।
 अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥

 छादनं सकल विम्बाछादनम् । छादने सति भेदनं भवति । रोधनं किंचिदपवारणम् । एतदेवोल्लेखनम् ।  यदाह काश्यपः ।

 भेदोल्लेखांशुसंमर्दा अपसव्यस्तथा परः ।
 ततो योगो भवेदेषामेकांशकसमापनान् ॥

 असंयुक्तबिम्बयोरन्योन्यरश्मिसंश्लेषोऽशुसंमर्दः सुसंनिहितासंयुक्तरश्मिप्रमण्डलयोः समदक्षिणोत्तराव-स्थिभिरपसव्यम् । एवमेतान्यपसव्यादीनि प्रतिलोमानि सन्निधितारतम्याद्भवन्ति ।