पृष्ठम्:अद्भुतसागरः.djvu/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०५
ध्रुवाद्यद्भुतावर्त्तः ।

 हन्ति वसिष्ठाभिहतो विवृद्धिदो रश्मिसम्पन्नः ॥
 अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः ।

पराशरस्तु ।

 धीमन्तो ब्राह्मणा ये च ज्ञानविज्ञानपारगाः ।
 रूपलावण्यसंयुक्ता मुनेरङ्गिरसः स्मृताः ॥

वराहसंहितयोस्तु[१]

 अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ।

पराशरस्तु ।

 कान्तारजास्तथाऽम्भोजान्यत्रेर्नद्यः ससागराः ।

वराहसंहितयोस्तु ।

 रक्षः पिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य ।

पराशरश्च ।

 पिशाचा दानवा दैत्या भुजङ्गा राक्षसास्तथा ।
 पुलस्त्यस्य विनिर्दिष्टाः पुष्पमूलफलं च यत् ॥
 तत्सर्वं पुलहस्योक्तं यज्ञा यज्ञकृतश्च ये ।
 क्रतोरेव विनिर्दिष्टा वेदज्ञा ब्राह्मणास्तथा ॥

अत्र पुष्पमूलफलं पुलहस्य यज्ञादयः क्रतोरिति सम्बन्धः ।
तथा च वराहसंहिताया।

 पुलहस्य फलमूलं क्रतोस्तु यज्ञाः सुयज्ञकृतः ।

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षय निमित्तम् ।

 “या चैषा विश्रुता राजँस्त्रैलोक्ये साधुसंमता ।
 अरुन्धरी तयाऽप्येष वसिष्ठः पृष्ठतः कृतः[२]

अगस्त्यसप्तर्विध्रुवाणामशुभलक्षणं विष्णुधर्मोत्तरे ।

 आगस्त्योऽरुणो रूक्षः श्यावो रेणूल्कयोपहतः शिखिशिखाध्वस्तो भयाय । एवंविधाः सप्तर्षयश्च । एवंविधे ध्रुवे त्रैलोक्यमपि पीड्यते ।


  1. वटकणिकाबृहत्संहितयोरिति ।
  2. २ अ, ३१ श्लो. ।