पृष्ठम्:अद्भुतसागरः.djvu/२१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०४
अद्भुतसागरे

भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।

 "सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा"[१]

विष्णुधर्मोत्तरे ।

 उल्कयाऽमिहता रूक्षाः स्फुरणा रजसा हताः ।
 ऋषयः सर्वलोकानां विनाशाय सभूभृताम् ॥

वराहसंहितायां तु ।

 उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
 हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥

गर्गस्तु ।

 उल्कया केतुना वाऽपि धूमेन रजसाऽपि वा ।
 हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥
 स्वं स्वं वर्गं तदा हन्युर्मुनयः सर्व एव ते ।
 विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः ॥

एतेषां वर्गानाह पराशरः ।

 देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः ।
 नागा विद्याधराः सर्वे मरीचेः परिकीर्त्तिताः ॥

वराहसंहितायां तु ।

 गन्धर्वदेवदानवमन्त्रौषधिसिद्धनागयक्षाणाम् ।
 पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥

उल्काहतपीडाकर इति सम्बन्धः ।
पराशरः ।

 यवनाः पारदाश्चैव काम्बोजा दरदाः शकाः ।
 वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ॥

वराहसंहितायां तु ।

 शकयवनदरदपारदकाम्बोजाँस्तापसान् वनोपेतान् ।


  1. ३ अ, २६ श्लो. ।