पृष्ठम्:अद्भुतसागरः.djvu/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९७
केत्वद्भुतावर्त्तः ।

 नद्यश्चासृक्प्रवाहिन्यः सोमे समुपधूपिते ।
 अथ यत्रोदितः केतुर्लोहिताङ्गं प्रधूपयेत्
 तदा प्रायः प्रदह्यन्ते ग्रामाश्च नगराणि च ॥
 रक्तवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
 रक्तपुष्पफला वृक्षाः सर्वे चाग्न्युपजीविनः ॥
 हिरण्यं रजतं लोहं ताम्रसीसकमेव च ।
 मणिरत्नं तथा वज्रं सर्वमेवोपहन्यते ॥
 हिरण्यकारा कर्मकारास्ताम्रकांस्यादिकारकाः ।
 प्राप्नुवन्ति वधं घोरं लोहिताङ्गे प्रधूपिते ॥
 अथ यत्रोदितः केतुर्बुधं समुपधूपयेत् ।
 तदा प्रजानां ये श्रेष्ठास्तेषां विन्द्यान्महद्भयम् ॥
 पौराश्चात्र विनश्यन्ति वणिक्पथोपजीविनः ।
 मृयन्ते राजपुत्राश्च राजकन्यास्तथैव च ॥
 प्राज्ञा मेधाविनः शूराः कुमाराश्च विशेषतः ।
 गर्भाश्चात्र विनश्यन्ति बुधे समुपधूपिते ॥
 अथ यत्रोदितः केतुर्गुरुं समुपधूपयेत् ।
 तत्र विद्याविशेषेण ब्राह्मणानामुपद्रवम् ॥
 प्राज्ञा मेधाविनश्चैव तथैवाश्रमवासिनः ।
 वाचा ये चोपजीवन्ति श्रेष्ठा जनपदाश्रये ॥
 मद्राः कैकेयशाल्वाश्च नराः काशीनरास्तथा ।
 कोशलाः कुरुपाञ्चाला मत्स्याश्च सह चेदिभिः ॥
 एतद्देशमनुष्याश्च राजानश्च तदाश्रयाः ।
 सर्व एते विनश्यन्ति गुरौ समुपधूपिते ॥