पृष्ठम्:अद्भुतसागरः.djvu/२११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
अद्भुतसागरे

 नैमिषनृपं किरातं श्रवणादिषु षट्स्वनुक्रमतः ॥

मृदुनक्षत्राभ्युदिताशुभकेतुफलमाहाथर्वमुनिः ।

 मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च ।
 दारुणेषु च ऋक्षेषु विद्यात् तत्सदृशं फलम् ॥
 यथादेशं यथावर्णं यथावर्गपरिग्रहम् ।
 सर्व एवोदिता हन्युः सर्व एवाशुभा ग्रहाः ॥

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “धूसेनयोरशिवं घोरं पुष्यमाक्रम्य ताटकम्।
 सेनयोरशिवं घोरं ज्येष्ठामाक्रम्य तिष्ठति ”[१]

हरिवंशे कंसवधनिमित्तम् ।

 "केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
 भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम्"[२]

वराहसंहितायाम् ।

 उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा ।
 अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥

गार्गाये ।

 अथ यत्रोदितः केतुः सोमं समुपधूपयेत् ।
 तदा सर्वं शोषमेति भौमं स्थावरजङ्गमम्
 समुद्राश्च क्षयं यान्ति सर्वा नद्यः सरांसि च ।
 हैमवत्यो[३] विशुष्यन्ति नद्योऽन्यासां तु का कथा ॥
 नखकेशवहो वायुः कपालशकलाकुलः ।


  1. ३.अ, १३ श्लो. ।
  2. २३ अ. २७ श्लो. । केतोरुत्पातविशेषस्य केतुना पुच्छेन भरण्यादीनि त्रयोदश उत्तराभाद्रपदपर्यन्तं नक्षत्राणि यदि भिन्नानि तदा निशाकरं चन्द्रं नानुयान्ति चन्द्रकृतं फलं न भवतीति टीकाकारसम्मतोऽर्थः ।
  3. भौमवत्यः इति अ. ।