पृष्ठम्:अद्भुतसागरः.djvu/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९५
केत्वद्भुतावतः ।

पराशरः ।

 येषां नक्षत्रविषये रूक्षः सज्वाललोहितः ।
 दृश्यते बहुमूर्त्तिश्च तेषां विन्द्यान्महद्भयम् ॥
 अवर्षं शस्त्रकोपं च व्याधिदुर्भिक्षमेव च ।
 कुर्यान्नृपतिपीडां च स्वचक्रपरचक्रतः ॥
 यत्रोत्तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति ।
 धूपयेद्वा स्पृशेद्वाऽपि हन्याद्देशाँस्तदाश्रयान् ॥

वराहसंहितायाम् ।

 ये शस्ताँस्तान् हित्वा केतुभिराधूपितेऽथ वा स्पृष्टे ।
 नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥
 अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात् ।
 बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम् ॥
 औशीनरमपि सौम्ये जलजाजीवाधिपं तथाऽऽर्द्रासु ।
 आदित्येऽश्मकनाथं पुष्ये मगधाधिपं हन्ति ॥
 असिकेशं भौज पित्र्येऽङ्गं नाथमपि भाग्ये ।
 औज्जयिनिकमार्यम् सावित्र्य दण्डकाधिपतिम् ॥
 चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ज्ञः।
 काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः ॥
 इक्ष्वाकुरलकनाथश्च हन्यते यदि भवेद्विशाखासु ।
 मैत्रे पुण्ड्राधिपतिर्जेष्टासु च सार्वभौमवधः ॥
 मलेऽन्ध्रमद्रकपती जलदेव काशिपो मरणमेति ।
 यौधेयकार्जुनायन शिविचैद्यान् वैश्वदेवे च ॥
 हन्यात् कैकयनाथं पाञ्चनदं सिंहलाधिपं चाङ्गम्[१]


  1. बाङ्गम् इति अ ।