पृष्ठम्:अद्भुतसागरः.djvu/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
अद्भुतसागरे

दिव्यादिफलेषु विशेषो वटकणिकायाम् ।

 दिव्या नक्षत्रस्थास्तीव्रफला मन्दफलकरा भौमाः ।
 प्राणिध्वजादितुङ्गेष्वथान्तरिक्षा न चात्यशुभाः ॥
 केचित् केतुसहस्रं शतमेकसमन्वितं वदन्त्यपरे ।
 नारदमतमेकोऽयं त्रिस्थानभवो विविधरूपः ॥

तथा च नारदः ।

 दिव्योऽन्तरिक्षो भौमाख्य एकः केतुः प्रकीर्त्तितः ।
 शुभाशुभफलं लोके ददात्यस्तमनोदयैः ॥

असंख्याता: केतवो भवन्तीत्युक्तमाथर्वणाद्भुते ।

 अनेकशतसाहस्राननेकशतलक्षणान् ।
 देवलस्तु ग्रहानाह सर्वानेव पृथक्फलान् ॥

वराहसंहितायां तु ।

 यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् ।
 उदयास्तमनैः स्थानैः स्पर्शैराधूपनै[१]र्दृष्टैः ॥

वृद्धगर्गः ।

 सर्वथैवोपहिंसन्ति केतवो दारुणा जगत् ।
 दिक्कालाकारवर्णैश्च दृश्यमाना नभोगताः ॥

अथोल्काभिहतशिखाफलं वराहसंहितायाम् ।

 उल्काभिताडितशिखः शिखी शिवः शिवतरोऽभिदृष्टो यः ।
 अशुभं स एव चोलावगाणसितहूणचीनानाम् ॥

वृद्धगर्गस्तु ।

 यानि यान्युपहिंसन्ति नक्षत्राणि महाग्रहाः ।
 तेषां तेषां जनपदान् केतवो घ्नन्ति दर्शने ॥

नक्षत्रजनपदान् नक्षत्राद्भुतावर्त्ते वक्ष्यामः ।


  1. वर्णैः इति अ ।