सामग्री पर जाएँ

पृष्ठम्:अद्भुतसागरः.djvu/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८५
केत्वद्भुतावर्त्तः ।

अथादृश्यकेतूनां लक्षणमाह वृद्धगर्गः ।

 सप्त सप्त च ये शेषाः श्वेतवान्तर्हिता दिवि ।
 कः प्रजापतिपुत्रस्तु चत्वारस्तस्य चापरे ।
 तेऽपि चान्तर्हिताः सर्वे समन्तात् केतवो दिवि ।
 शृणुयाद्दिवि हिसन्ति द्रव्याणि च फलानि च ॥
 तपस्विजनभोज्यानि मलानि च फलानि च ।
 गैरिकानि च धातूँश्च पीडयेत् पुनरेव च ॥
 स्त्रीणां गर्भान् गवां गर्भानण्डस्थान् पक्षिपन्नगान् ।
 एतानन्त्तर्हिता घ्नति केतवो भृशदारुणः ॥

अतः परममृतजस्य पद्मकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।

 श्वेतकेतावतीते तु पद्मगर्भवपुः शुभः ।
 पद्मकेतुरिति ख्यातश्चरन् नभसि दृश्यते ॥
 तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
 पर्वतो वै नभश्चैव दिशो भूमिरथापि वा ॥
 चन्द्रादित्यौ ग्रहाश्चैव भवन्ति विमला दिवि ।
 एतैरन्यैश्च सल्लिङ्गेरुदयं तस्य निर्दिशेत् ॥

पद्मकेतुलक्षणं वराहसंहितायाम् ।

 अपरेण पद्मकेतुर्मृणालवर्णो भवेन्निशामेकाम् ।
 सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ॥

मृणालवर्णो मृणालशिखः ।
तथा च पराशरः ।

 अथातः पद्मकेतुः श्वेतकेतुफलसमाप्तौ पश्चिमेनाह्लादयन्निव मृणालकुमुदाभया शिखयैकरात्रं चरन् सप्तवर्षाण्युच्छ्रितं हर्षमावहति ।