पृष्ठम्:अद्भुतसागरः.djvu/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८६
अद्भुतसागरे

वृद्धगस्तु ।

 मृणालमुक्ताशीतांशुर्जगत् प्रह्लादयन्निव ।
 पश्चिमेनोदितः श्रीमानेकां दर्शयते निशाम् ॥
 स सुभिक्षं स चारोग्यं प्रजानां हर्षमेव च ।
 नित्योत्सवसमाजश्च नित्यं यज्ञपरा नराः ॥
 देशे देशे मनुष्याणां भवन्ति विविधाः क्रियाः ।
 आमृतेयोऽपरः केतुः फलं सृजति दर्शनात् ॥
 तस्य पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ।
 फलं दृष्टं च षण्मासान् महर्षिवचनं यथा ॥

अथातः परं स्वधितोहदयः । तत्र वृद्धगर्गः ।

 षोडशैकश्च मारीचे: कश्यपस्य ललाटजाः ।
 तेषामेकः स्वधिर्नाम चरन् पूर्वेण दृश्यते ॥
 ततस्तु पञ्चदशभिः संवत्सरशतैर्गतैः ।
 कृतान्तसदृशः क्रूरः प्रजानां च भयावहः ॥
 तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
 पतन्त्युल्काः सनिर्घाता वाता वान्ति सुदारुणाः ॥
 महीकम्पा दिशां दाहाः परिवेषांशु मर्दनाः ।
 स्त्रीणां च विकृता गर्भाः प्रदृश्यन्ते समन्ततः ॥

तस्य लक्षणं वराहसंहितायाम् ।

 श्वेत इति जटाकारो रूक्षः श्यामो वियन्त्रिभागगतः ।
 विनिवर्त्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥

श्वेत इति स्वधिकेतोरेव संज्ञान्तरम् ।
तथा च पराशरः ।

 अथ काश्यपः स्वधिकेतुः पञ्चदशवर्षशतं प्रोष्यैन्द्र्यां सोमसहजस्य पद्मकेतोश्चारान्ते श्यावरूक्षो नभसस्त्रिभागमाक्रम्यापसव्य-