पृष्ठम्:अद्भुतसागरः.djvu/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८४
अद्भुतसागरे

अथ लक्षणम् ।

 पूर्वेणोदयते चैष पश्चिमेनानतद्युतिः ।
 कः प्रजापतिपुत्रश्च पश्चिमेन प्रपद्यते ॥
 स तुल्यमुदितस्तेन प्रजाः शस्त्रेण हिंसति ।
 निशार्धे दर्शनं चास्य प्रमाणं परिकीर्तितम् ॥
 श्वेतः सप्त निशा दृश्यस्ततो गच्छत्यदर्शनम् ।
 तावुभौ दश वर्षाणि प्रजाः पोडयतो भृशम् ॥
 व्याधिभिर्दारुणैस्तैस्तैः प्रजानां मरणं ध्रुवम् ।
 राजानश्च विरुध्यन्ते नानाव्याधिभयं क्वचित् ॥
 क्वचित् पञ्चमिकी खारी क्वचिदर्घेण षष्टिका ।
 क्षुद्भिरुत्सादितो देशो यत्र केतुः प्रदृश्यते ॥

पराशरस्तु ।

 अथोद्दालिकिश्वेतकेतुर्दशोत्तरं वर्षशतं प्रोष्य भवकेतोश्चारान्ते पूर्वस्यां दिशि दक्षिणाभिनतशिखोऽर्धरात्रकाले दृश्यः । तेनैव सह द्वितीयः प्रजापतिसुतः पश्चिमेन कनामा ग्रहः केतुर्युगसंस्थायी युगपदेव दृश्यते । तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीडयतः । कः प्रजापतिपुत्रो यदा द्व्यधिकं दृश्येत तदा दारुणं प्रजानां शस्त्रकोपं कुर्यात् । तावेव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौ भवतः ।

वराहसंहितायाम् ।

 प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।
 क इति युगाकृतिरपरे युगपत् तौ सप्तदिनदृश्यौ ।
 स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामायः ।
 दशवर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥