पृष्ठम्:अद्भुतसागरः.djvu/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८२
अद्भुतसागरे

 सोमस्य सप्तमे भागे नाम्ना चन्द्रसखः शिखी ।
 अमृतेयो ग्रहः श्रीमानानन्दजलदो नृणाम् ॥
 राहुमार्गमावृत्य निशाः सप्त प्रदृश्यते ।
 दर्शनं चास्य शंसन्ति विप्राः शास्त्रविशारदाः ॥

 राहुमार्गमपावृत्येति यस्मिन् कृत्तिकादिसप्तनक्षत्रात्मकमार्गे राहुस्तिष्ठति तन्मार्गमाश्रित्येत्यर्थः ।
 वृद्धगर्गः ।

 ततः प्रभृति भूयिष्ठा आमृतेयाश्च केतवः ।
 सुभिक्षाय तु ते सर्वे प्रदृश्यन्तेऽमृतोद्भवाः ॥
 यस्य स्नेहो यथा वर्णः सभिक्षाय स कल्प्यते ।
 स एव रूक्षः कुरुते दुर्भिक्षं व्याध्युपद्रवम् ॥

अतः परममृतजस्य भवकेतोरुदयः । तत्र वृद्धगर्गः ।

 ततः पर्यायशेषस्तु लोकानां हितकाम्यया ।
 दर्शनेऽत्युत्तमः केतुर्भ्राजन् नभसि संस्थितः ॥
 भवाय जगतः श्रीमान् भवकेतुः प्रदृश्यते ।
 उत्थाने चास्य लिङ्गानि वेदितव्यानि पूर्वतः ॥
 शास्त्रज्ञेनाभियुक्तेन प्राज्ञेनैतद्विजानता ।
 न रौद्रं न च बीभत्सं न दीना न तु पापिनः ॥
 व्याहरन्ति मृगारिष्टा ग्राम्यारण्याश्च पक्षिणः ।
 एतैर्निमित्तैर्विज्ञेयं भवकेतुरुदेष्यति ॥

अथास्य लक्षणं वराहसंहितायाम् ।

 भवकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ।
 हरिलाङ्गूलोपमया प्रदक्षिणावर्त्तया शिखया ॥

पराशरः ।

 तेषामष्टानां कर्मण्यतीते भवकेतुर्दृश्यते पूर्वेणैकररात्रम् ।