पृष्ठम्:अद्भुतसागरः.djvu/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८१
केत्वद्भुतावर्त्तः ।

वृद्धगर्गस्तु ।

 स्निग्धः पश्चाच्छिखः श्रीमान् दृश्यते दिशि पश्चिमे ।
 अन्यकेतुभिरातप्तं जगत् प्रह्लादयन्निव ॥
 प्राप्तिः कृतयुगस्येव जलकेतौ नभोगते ।
 चतुर्मासोदितश्चैव ततः फलति कर्मभिः ॥
 कर्म चास्य शुभं शस्यमारोग्यं क्षेम एव च ।
 राहुणा केतुना वाऽपि बुधेनान्यग्रहेण वा ॥
 यदि पापं कृतं कर्म दर्शनादस्य नश्यति ।
 जलकेतुः प्रभुः प्रोक्तः शेषाः सौम्यास्त्रयोदश ॥
 शुभास्तमनुगच्छन्ति केतुमन्ये च केतवः ।
 सूक्ष्मरूपप्रभाश्चैव तथैवाकरदर्शनाः ॥
 तारारूपास्तथा सर्वे विचरन्त्यस्य पार्श्वतः ।
 केतुज्ञास्ताँस्तु पश्यन्ति ये चान्ये निपुणा जनाः ॥
 चतुर्दशानामेतेषां शेषा रौद्राः प्रकीर्त्तिताः ।

ऊर्यादयोऽवशिष्टा अमृतजा जलकेतूदयानन्तरमुद्यन्ते इति ।
पराशरो यथाऽऽह ।

 अथ जलकेतोश्चारसमाप्तावूर्म्यादयः शीतान्ता अन्ये प्रादुर्भवन्ति । ते त्रयोदशचतुर्दशाष्टादशवर्षान्तरिता दृश्यन्ते । स्निग्धाः सुभिक्षक्षेमाय विपर्ययाय विपरीताः । क्षुद्रजन्तूनां वधाय च- इति ।

वृद्धगर्गस्तु ऊर्म्यादीनामुदये विशेषमाह ।

 ऊर्मिकेतुः प्रदृश्येत मध्ये चन्द्रमसोऽसितः ।
 राहोदर्शनमास्थाय लोकं समोहयन्निव ॥
 शोभनं तस्य नक्षत्रे दर्शनं पौर्णमासिके ।
 बालेन्दुसदृशीं सौम्यां शिखां दर्शयते शुभाम् ॥